|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.156. अध्यायः 156
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति लोभादीनामनर्थहेतुत्वकथपूर्वकं तद्वतां गर्हणम्॥ 1॥ तथा सत्सङ्गस्य लोभादिजयीपायत्वसूचनाय सतां प्रशंसनपूर्वकं तत्पूजाविधानम्॥ 2॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-156-0x(5825)(71257)
पापस्य यदधिष्ठानं यतः पापं प्रवर्तते।
एतदिच्छाम्यहं श्रोतुं तत्त्वेन भरतर्षभ॥ 12-156-1(71258)
भीष्म उवाच। 12-156-2x(5826)
पापस्य यदधिष्ठानं तच्छृणुष्व नराधिप।
एको लोभो महाग्राहो लोभात्पापं प्रवर्तते॥ 12-156-2(71259)
अतः पापमधर्मश्च तथा दुःखमनुत्तमम्।
निकृत्या मूलमेतद्धि येन पापकृतो जनाः॥ 12-156-3(71260)
लोभात्क्रोधः प्रभवति लोभात्कामः प्रवर्तते।
लोभान्मोहश्च माया च मानस्तम्भः परासुता॥ 12-156-4(71261)
अक्षमा ह्रीपरित्यागः श्रीनाशो धर्मसंक्षयः।
अभिध्याऽप्रख्यता चैव सर्वं लोभात्प्रवर्तते॥ 12-156-5(71262)
अत्यागश्च कुतर्कश्च विकर्मसु च याः क्रियः।
कुलविद्यामदश्चैव रूपैश्वर्यमदस्तथा॥ 12-156-6(71263)
सर्वभूतेष्वभिद्रोहः सर्वभूतेष्वसत्कृतिः।
सर्वभूतेष्वविश्वासः सर्वभूतेष्वनार्जवम्॥ 12-156-7(71264)
हरणं परवित्तानां परदाराभिमर्शनम्।
वाग्वेगो मनसो वेगो निन्दावेगस्तथैव च॥ 12-156-8(71265)
उपस्थोदरयोर्वेगो मृत्युवेगश्च दारुणः।
ईर्ष्यावेगश्च बलवान्मिथ्यावेगश्च दुर्जयः॥ 12-156-9(71266)
रसवेगश्च दुर्वार्यः श्रोत्रवेगश्च दुःसह।
कुत्सा विकत्था मात्सर्यं पापं दुष्कर्मकारिता।
साहसानां च सर्वेषामकार्याणां क्रियास्तथा॥ 12-156-10(71267)
आतौ बाल्ये च कौमारे यौवने चापि मानवाः।
न त्यजन्त्यात्मकर्मैकं यन्न जीर्यति जीर्यतः॥ 12-156-11(71268)
यो न पूरयितुं शक्यो लोभः प्रीत्या कथंचन।
नित्यं गम्भीरतोयाभिरापगाभिरिवोदधिः॥ 12-156-12(71269)
न प्रहृष्यति यो लोभैः कामैर्यश्च न तृप्यति।
यो न देवैर्न गन्धर्वैर्नासुरैर्न महोरगैः॥ 12-156-13(71270)
ज्ञायते नृप तत्त्वेन सर्वैर्भूतगणैस्तथा।
स लोभः सह मोहेन विजेतव्यो जितात्मना॥ 12-156-14(71271)
दम्भो द्रोहश्च निन्दा च पैशून्यं मत्सरस्तथा।
भवन्त्येतानि कौरव्य लुब्धानामकृतात्मनाम्॥ 12-156-15(71272)
सुमहान्त्यपि शास्त्राणि धारयन्तो बहुश्रुताः।
छेत्तारः संशयानां च क्लिश्यन्तीहाल्पबुद्धयः॥ 12-156-16(71273)
द्वेपक्रोधप्रसक्ताश्च शिष्टाचारबहिष्कृताः।
अन्तःक्षुरा वाङ्भधुराः कृपाश्छन्नास्तृणैरिव॥ 12-156-17(71274)
धर्मवैतंसिकाः क्षुद्रा मुष्णन्ति ध्वजिनो जगत्।
कुर्वते च बहून्मार्गांस्तान्हेतुबलमाश्रिताः।
सर्वमार्गान्विलुम्पन्ति लोभज्ञानेष्ववस्थिताः॥ 12-156-18(71275)
धर्मस्य ह्रियमाणस्य लोभग्रस्तैर्दुरात्मभिः।
याया विक्रियते संस्था ततः साऽपि प्रपद्यते॥ 12-156-19(71276)
दर्पः बोधो मदः स्वप्नो हर्षः शोकोऽभिमानिता।
एत हि कौरव्य दृश्यन्ते लुब्धबुद्धिषु॥ 12-156-20(71277)
एताना टान्बुद्धस्व नित्यं लोभसमन्वितान्।
शिष्टांस्तु परिपृच्छेथा यान्वक्ष्यामि शुचिव्रतान्॥ 12-156-21(71278)
येष्वावृत्तिभयं नास्ति परलोकभयं न च।
नामिपेषु प्रसङ्गोऽस्ति न प्रियेष्वप्रियेषु च॥ 12-156-22(71279)
शिष्टाचारः प्रियो येषु दमो येषु प्रतिष्ठितः।
सुखं दुःखं समं येषां सत्यं येषां परायणम्॥ 12-156-23(71280)
दातारो न ग्रहीतारो दयावन्तस्नथैव च।
पितृदेवातिथेयाश्च नित्योद्युक्तास्तथैव च॥ 12-156-24(71281)
सर्वोपकारिणो वीराः सर्वधर्मानुपालकाः।
सर्वभूतहिताश्चैव सर्वदेयाश्च भारत॥ 12-156-25(71282)
न ते चालयितुं शक्या धर्मव्याहारकारिणः।
न तेषां भिद्यते वृत्तं यत्पुरा साधुभिः कृतम्॥ 12-156-26(71283)
न त्रासिनो न चपला न रौद्राः सत्पथे स्थिताः।
ते सेव्याः साधुभिर्नित्यमसाधूंश्च विवर्जयेत्॥ 12-156-27(71284)
कामक्रोधव्यपेता ये निर्ममा निरहंकृताः।
सुव्रताः स्थिरमर्यादास्तानुपास्व च पृच्छ च॥ 12-156-28(71285)
न वागर्थं यशोर्थं वा धर्मस्तेपां युधिष्ठिर॥
अवश्यं कार्य इत्येव शरीरस्य क्रियास्तथा॥ 12-156-29(71286)
त भयं क्रोधचापल्ये न शोकस्तेषु विद्यते।
न धर्मध्वजिनश्चैव न गुह्यं किंचिदास्थिताः॥ 12-156-30(71287)
येष्वलोभस्तथाऽमोहो ये च सत्यार्जवे स्थिताः।
तेषु कौन्तेय रज्येथा येषां न भ्रश्यते पुनः॥ 12-156-31(71288)
ये न हृष्यन्ति लाभेषु नालाभेषु व्यथन्ति च।
निर्ममा निरहंकाराः सत्वस्थाः समदर्शिनः॥ 12-156-32(71289)
लाभालाभौ सुखदुःखे च तात
प्रियाप्रिये मरणं जीवितं च।
समानि येषां स्थिरविक्रमाणां
बुभुत्सतां सत्यपथे स्थितानाम्॥ 12-156-33(71290)
धर्मप्रियांस्तान्सुमहानुभावान्
दान्तोऽप्रमत्तश्च समर्चयेथाः।
दैवात्सर्वे गुणवन्तो भवन्ति
शुभाशुभे वाक्प्रलापास्तथाऽन्ये॥ ॥ 12-156-34(71291)
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि षट्पञ्चाशदधिकशततमोऽध्यायः॥ 156॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-156-2 ग्राह इव ग्राहो ग्रासकर्ता॥ 12-156-3 येन लोभेन जनाः पापकृतो भवन्ति॥ 12-156-4 परासुता पराधीनप्राणत्वम्॥ 12-156-5 अभिध्या चिन्ता। अप्रख्यता अप्रकीतिः। अभिध्याऽप्रावृता चैवेति ड. थ. पाठः॥ 12-156-6 अत्यागादयोऽकार्यक्रियान्ताः सर्वे दोषाः लोभात् प्रवर्तन्त इति पूर्वोणान्वयः॥ 12-156-11 जातौ जन्मनि॥ 12-156-12 यो न पूरयितुं शक्य इत्यादीनां स लोभो जेतव्य इति तृतीयेनान्वयः॥ 12-156-16 अल्पेऽपि धनादौ बुद्धिर्येषां पवुद्धयो लुब्धा इत्यर्थः॥ 12-156-18 धर्मवैतंसिकाः धर्मव्याजेने एन् हिंसन्तः। ध्वजिनो धर्मख्यापकाः। हेतुबलमिति अन्यं संतोपहेतुतया पारदार्यादेरपि धर्मत्वं वर्णयन्तीति भावः॥ 12-156-19 संस्था स्थितिः। विक्रियतेऽन्यथा भवति॥ 12-156-25 सर्वं प्राणपर्यन्तमपि देयं परार्थे दातुं योग्यं येषां ते॥ 12-156-28 पृच्छ च धर्ममिति शेषः॥ 12-156-29 क्रिया आहारादयः। न धनार्थमिति झ. पाठः॥ 12-156-30 गुह्यं गोपनीयम्॥ 12-156-31 अमोह इति च्छेदः। येषां वृत्तमिति शेषः॥ 12-156-34 हे शुभ हे भद्र, सर्वे वाक्प्रलापा गुणवन्तो भवन्ति। अन्ये तु मूढानां वाक्प्रलापा अशुभेऽशुभार्थमेव भवन्तीति शेषः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|